२५७
[भी]
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना॥१॥
छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम्।
गोग्रहे यज्ञवातस्य प्रेक्षमाणः स पार्थिवः॥२॥
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम्।
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता॥३॥
अव्यवस्थित मर्यादैर्विमूढैर्नास्तिकैर्नरैः।
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता॥४॥
सर्वकर्म स्वहिंसा हि धर्मात्मा मनुरब्रवीत्।
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः॥५॥
तस्मात्प्रमानतः कार्यो धर्मः सूक्ष्मो विजानता।
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता॥६॥
उपोष्य संशितो भूत्वा हित्वा वेद कृताः श्रुतीः।
आचार इत्यनाचाराः कृपणाः फलहेतवः॥७॥
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्धिश्य मानवाः।
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते॥८॥
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम्।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम्॥९॥
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम्।
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम्॥१०॥
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः।
यच्चापि किं चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम्।
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत्॥११॥
[य्]
शरीरमापदश्चापि विवदन्त्यविहिंसतः।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति॥१२॥
[भी]
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्॥१३॥
॥इति विचख्नुगीता समाप्ता॥